ओं नमो नारायणाय अष्टाक्षरमाहात्म्यं – Om Namo Narayanaya Ashtakshara Mahatmyam in Hindi

श्रीशुक उवाच —
किं जपन् मुच्यते तात सततं विष्णुतत्परः .
संसारदुःखात् सर्वेषां हिताय वद मे पितः .. १..

व्यास उवाच —
अष्टाक्षरं प्रवक्ष्यामि मंत्राणां मंत्रमुत्तमं .
यं जपन् मुच्यते मर्त्यो जन्मसंसारबंधनात् .. २..

हृत्पुंडरीकमध्यस्थं शंखचक्रगदाधरं .
एकाग्रमनसा ध्यात्वा विष्णुं कुर्याज्जपं द्विजः .. ३..

एकांते निर्जनस्थाने विष्णवग्रे वा जलांतिके .
जपेदष्टाक्षरं मंत्रं चित्ते विष्णुं निधाय वै .. ४..

अष्टाक्षरस्य मंत्रस्य ऋषिर्नारायणः स्वयं .
छंदश्च दैवी गायत्री परमात्मा च देवता .. ५..

शुक्लवर्णं च ओंकारं नकारं रक्तमुच्यते .
मोकारं वर्णतः कृष्णं नाकारं रक्तमुच्यते .. ६..

राकारं कुंकुमाभं तु यकारं पीतमुच्यते .
णाकारमंजनाभं तु यकारं बहुवर्णकं .. ७..

ओं नमो नारायणायेति मंत्रः सर्वार्थसाधकः .
भक्तानां जपतां तात स्वर्गमोक्षफलप्रदः .
वेदानां प्रणवेनैष सिद्धो मंत्रः सनातनः .. ८..

सर्वपापहरः श्रीमान् सर्वमंत्रेषु चोत्तमः .
एनमष्टाक्षरं मंत्रं जपन्नारायणं स्मरेत् .. ९..

संध्यावसाने सततं सर्वपापैः प्रमुच्यते .
एष एव परो मंत्र एष एव परं तपः .. १०..

एष एव परो मोक्ष एष स्वर्ग उदाहृतः .
सर्ववेदरहस्येभ्यः सार एष समुद्धॄतः .. ११..

विष्णुना वैष्णवानां हि हिताय मनुजां पुरा .
एवं ज्ञात्वा ततो विप्रो ह्यष्टाक्षरमिमं स्मरेत् .. १२..

स्नात्वा शुचिः शुचौ देशे जपेत् पापविशुद्धये .
जपे दाने च होमे च गमने ध्यानपर्वसु .. १३..

जपेन्नारायणं मंत्रं कर्मपूर्वे परे तथा .
जपेत्सहस्रं नियुतं शुचिर्भूत्वा समाहितः .. १४..

मासि मासि तु द्वादश्यां विष्णुभक्तो द्विजोत्तमः .
स्नात्वा शुचिर्जपेद्यस्तु नमो नारायणं शतं .. १५..

स गच्छेत् परमं देवं नारायणमनामयं .
गंधपुष्पादिभिर्विष्णुमनेनाराध्य यो जपेत् .. १६..

महापातकयुक्तोऽपि मुच्यते नात्र संशयः .
हृदि कृत्वा हरिं देवं मंत्रमेनं तु यो जपेत् .. १७..

सर्वपापविशुद्धात्मा स गच्छेत् परमां गतिं .
प्रथमेन तु लक्षेण आत्मशुद्धिर्भविष्यति .. १८..

द्वितीयेन तु लक्षेण मनुसिद्धिमवाप्नुयात् .
तृतीयेन तु लक्षेण स्वर्गलोकमवाप्नुयात् .. १९..

चतुर्थेन तु लक्षेण हरेः सामीप्यमाप्नुयात् .
पंचमेन तु लक्षेण निर्मलं ज्ञानमाप्नुयात् .. २०..

तथा षष्ठेन लक्षेण भवेद्विष्णौ स्थिरा मतिः .
सप्तमेन तु लक्षेण स्वरूपं प्रतिपद्यते .. २१..

अष्टमेन तु लक्षेण निर्वाणमधिगच्छति .
स्वस्वधर्मसमायुक्तो जपं कुर्याद् द्विजोत्तमः .. २२..

एतत् सिद्धिकरं मंत्रमष्टाक्षरमतंद्रितः .
दुःस्वप्नासुरपैशाचा उरगा ब्रह्मराक्षसाः .. २३..

जापिनं नोपसर्पंति चौरक्षुद्राधयस्तथा .
एकाग्रमनसाव्यग्रो विष्णुभक्तो दृढव्रतः .. २४..

जपेन्नारायणं मंत्रमेतन्मृत्युभयापहं .
मंत्राणां परमो मंत्रो देवतानां च दैवतं .. २५..

गुह्यानां परमं गुह्यमोंकाराद्यक्षराष्टकं .
आयुष्यं धनपुत्रांश्च पशून् विद्यां महद्यशः .. २६..

धर्मार्थकाममोक्षांश्च लभते च जपन्नरः .
एतत् सत्यं च धर्म्यं च वेदश्रुतिनिदर्शनात् .. २७..

एतत् सिद्धिकरं नृणां मंत्ररूपं न संशयः .
ऋषयः पितरो देवाः सिद्धास्त्वसुरराक्षसाः .. २८..

एतदेव परं जप्त्वा परां सिद्धिमितो गताः .
ज्ञात्वा यस्त्वात्मनः कालं शास्त्रांतरविधानतः .
अंतकाले जपन्नेति तद्विष्णोः परमं पदं .. २९..

नारायणाय नम इत्ययमेव सत्यं
संसारघोरविषसंहरणाय मंत्रः .
शृण्वंतु भव्यमतयो मुदितास्त्वरागा
उच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहुः .. ३०..

भूत्वोर्ध्वबाहुरद्याहं सत्यपूर्वं ब्रवीम्यहं .
हे पुत्र शिष्याः शृणुत न मंत्रोऽष्टाक्षरात्परः .. ३१..

सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते .
वेदाच्छास्त्रं परं नास्ति न देवः केशवात् परः .. ३२..

आलोच्य सर्वशास्त्राणि विचार्य च पुनः पुनः .
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा .. ३३..

इत्येतत् सकलं प्रोक्तं शिष्याणां तव पुण्यदं .
कथाश्च विविधाः प्रोक्ता मया भज जनार्दनं .. ३४..

अष्टाक्षरमिमं मंत्रं सर्वदुःखविनाशनं .
जप पुत्र महाबुद्धे यदि सिद्धिमभीप्ससि .. ३५..

इदं स्तवं व्यासमुखात्तु निस्सृतं
संध्यात्रये ये पुरुषाः पठंति .
ते धौतपांडुरपटा इव राजहंसाः
संसारसागरमपेतभयास्तरंति .. ३६..

इति श्रीनरसिंहपुराणे अष्टाक्षरमाहात्म्यं नाम सप्तदशोऽध्यायः .. १७..

 

Please follow and like us:
Bookmark the permalink.

Comments are closed.